12. साद्यःस्क्रம் - இது अग्निष्टोम விகிருதி. ஐந்து விதம். முதல் இரண்டு விதங்களில் அவபிருதம் வரையிலுள்ள எல்லா வியாபாரங்களையும் ஒரே நாளில் செய்கிறது. இவைகளில் वेदि நெல்லு பழுத்திருக்கும் வயல்; उत्तरवेदि அதைக் கண்டு முதல் பண்ணும் களம்; யூபம் கலப்பையோடு சேர்ந்த நுகத்தடி (ईषा. सोमक्रयणी கொஞ்சம் குறைய மூன்று வயதுள்ள காளைக்கன்று. सोमक्रयणी விஷயமான மந்திரத்தில் எதை மாற்றுகிறது என்று விசாரிக்கப்படுகிறது. யூபாஹுதியும், स्थाण्वाहुतिயும் கிடையாது; यूपம் खादिरமாகவே இருக்கவேண்டுமென்று கட்டாயமில்லை; விரோதமில்லாத - பிரயோஜநமுள்ள - யூபத்தின் ஸம்ஸ்காரங்களைச் செய்யலாம் என்று தீர்மானம் (ताण्ड्य.ब्रा.अध्या-16, खण्डः-13; मीमांसा-अध्या-9, पा-1, अधि-16; अध्या-10, पा-1,अधि-5,6; अध्या-10, पा-2, अधि-31,33). 2. அஹீநமான ஸோமயாகங்கள்.

ताण्ड्य.ब्रा.अध्या-16, खण्डः-13

1 - एतस्यैवैकविंशं अग्निष्टोमसाम कृत्वामयाविनं याजयेत्
2 - प्राणो वै त्रिवृत्प्राण आदित्यः प्राणैरेष व्यृध्यते य आमयावी प्राणैरेवैनं समर्धयति
3 - विराजं संपद्यतेऽप वा एतस्मादन्नाद्यं क्रामति य आमयाव्यन्नं विराडन्नद्यं एवास्मिन्दधाति
4 - एकविंशोऽग्निष्टोमो भवत्यप्रतिष्ठितो वा एष य आमयावी प्रतिष्ठैकविंशः प्रत्येव तिष्ठति
5 - एतेनैवान्नाद्यकामो वा प्रतिष्ठाकामो वा यजेतान्नं विराट्प्रतिष्ठैकविंशोऽत्त्यन्नं प्रतितिष्ठति
6 - उर्वरा वेदिर्भवत्येतद्वा
अस्या वीर्यवत्तमं वीर्येणैव यज्ञं समर्धयति
7 - खल उत्तरवेदिरत्र हि स रसः समवैति सरसं एव यज्ञं करोति
8 - खलेवाली यूपो भवत्येतया हि तं रसं उत्कृषन्ति
9 - त्रिवत्सः साण्डः सोमक्रयणः सेन्द्रत्वाय
10 - सर्वा दिशोऽश्वरथाः सोमप्रवाका विधावन्ति
11 - सर्वाभ्य एवास्मै दिग्भ्योऽन्नाद्यं अवरुन्धे
12 - योजने चतुर्वाहिणा प्राच्यां दिशि प्राहैवं इव वा अध्वानो विमिता यैवाध्वनो मात्रातां धावयन्ति त्रैपदे प्रष्ठिवाहिनोदीच्यां गव्यूतौ द्व्योगेन प्रतिच्यां क्रोशे स्थूरिणा दक्षिणैतद्वै दिशां रूपं यदैव दिशां रूपं तेन यज्ञं समर्धयन्ति
13 - सक्षीरदृतयो रथा भवन्ति ततो यन्नवनीतं उदियात्तदाज्येऽपि कार्यं सद्यस्त्वाय

मीमांसा-अध्या-9, पा-1, अधि-16

9.1.16.45 - लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात् ॥
9.1.16.46 - पश्वभिधानाद्वा तद्धि चोदनाभूतं पुंविषयं पुनः पशुत्वम् ॥
9.1.16.47 - विशेषो वा तदर्थनिर्देशात् ॥
9.1.16.48 - पशुत्वं चैकशब्द्यात् ॥
9.1.16.49 - यथोक्तं वा सन्निधानात् ॥
मीमांसा-अध्या-10, पा-1,अधि-5,6

10.1.5.9 - कर्म च द्रव्यसंयोगार्थमर्थाभावान्निवर्तेत तादर्थ्यं श्रुतिसंयोगात् ॥
10.1.6.10 - स्थाणौ तु देशमात्रत्वादनिवृत्तिः प्रतीयेत ॥
10.1.6.11 - अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत ॥
10.1.6.12 - समाख्यानं च तद्वत् ॥
10.1.6.13 - मन्त्रवर्णश्च तद्वत् ॥
मीमांसा - अध्या-10, पा-2, अधि-31,33

10.2.31.70 - विप्रतिषेधे तद्वचनात्प्राकृतगुणलोपः स्यात्तेन च कर्मसंयोगात् ॥
10.2.32.71 - परेषां प्रतिषेधः स्यात् ॥
10.2.32.72 - प्रतिषेधाच्च ॥

Go to Main Page